Showing posts with label Bhagini_NIvedita. Show all posts
Showing posts with label Bhagini_NIvedita. Show all posts

Tuesday, April 27, 2021

सदा निवेदितां वन्दे।

 

सदा निवेदितां वन्दे।
वृत्त-अनुष्टुप्।
रचना- डा. चन्द्रहास-शास्त्री
समन्वयक:,
संस्कृत-अभ्यासक्रम:,
तिलक-शिक्षण-महाविद्यालय:, पुण्यपत्तनम् 30
www.drchandrhasshastri.in

भगिनीं योगिनीं साध्वीं
निवेदितां नमाम्यहम्।
आर्त्तानां सेविकाश्रेष्ठां
दयामुर्त्तिं नमाम्यहम्।।1

स्वामिनो वचनं तस्या
जीवनमखिलं खलु।
भारतीयत्वपुष्ट्यर्थं
कृतस्त्यागस्तया सदा।।2

तत्त्वरूपां व्रतस्थां तां
स्नेहरूपां समर्पिताम्।
वन्देऽहं सततं तां वै
भारतस्य सुतां पराम्।।3

सर्वं समर्प्य राष्ट्रार्थं
जनकल्याणहेतवे।
संस्थितममरं तस्या
यशो भारतमानसे ।।4

श्रद्धा च परमा यस्या
भारतमातृपादयोः।
संस्कृतिपोषिणीं साध्वीं
निवेदितां नमाम्यहम्।।5

तां दीनोद्धारकर्त्रीं च
सुभक्तां परमां वराम्।
साध्वीं निवेदितां वन्दे
नो मार्गदर्शिकां सदा।।6

शिक्षिकामभिवन्द्यां तां
मातृहृदयकोमलाम्।
साध्वीं निवेदितां वन्दे
तपस्विनीं यशस्विनीम्।।7

वत्सलां ज्ञानमूर्तिं च
तां भगिनीं निवेदिताम्।
नमति चन्द्रहासोऽयं
पुनः पुनः पुनः पुनः।।8

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...