रचना- © डाॅ. चन्द्रहास शास्त्री सोनपेठकर
कमललोचने नमः
राजीवलोचने नमः ।
त्रिनयनप्रिये नमः
प्रसन्नवदने नमः ।।१।।
नमः सुलोचने तुभ्यं
पाहि मां भक्तवत्सले ।
जगदीश्वरि माये त्वं
कृपाकटाक्षकाङ्क्षिणम् ।।२।।
सुवर्णवृष्टिकारिके
सुवर्णवर्णधारिणि ।
तमो नाशय नाशय
जगत्प्रकाशिके शिवे ।।३।।
रक्तकुसुमशोभिते
रुप्यमुकुटधारिणि ।
मां पश्य पश्य पाहि मां
माये कृपे दये परे ।।४।।
कुर्वन्ती त्वं स्मितं हास्यम्
आयाहि देवि सत्वरम् ।
स्वप्ने चापि सुषुप्तौ च
जागृत्यामपि सर्वथा ।।५।।
त्वया विना जगत्शून्यं
आप्ता मित्राणि नान्यथा ।
त्वया सह जगत्सर्वं
देवेश्युपस्थितं शुभे ।।६।।
सिंहकमलहंसानाम्
सशोभिताऽसनानि च ।
ते पावनानि रूपाणि
स्थास्यन्तु हृदि मे सदा ।।७।।
यशश्च मे धनं च मे
मोदं च मे सुखं च मे ।
उमे रमे च शारदे
देहि मे वरदेऽम्बिके ।।८।।
No comments:
Post a Comment