Sunday, February 10, 2013

Nature of Atman: आत्मन: स्वरूपं किं ?




      आत्मन: स्वरूपं किं ?


आत्मन: स्वरूपं किं ? तत् सत्  चित् आनन्द इति! अत्र सत् इत्युक्ते यस्य सत्ता अर्थात् अस्तित्वम् अस्ति तत् ! चित् इत्युक्ते चेतना! आनन्द इत्युक्ते अखण्ड: आनन्द: य: कदापि नष्ट: न भवति तथा च दु:खस्य आत्यन्तिक: अभाव:! कतिचन जनानाम् एतत् भ्रमितमतं यद्  मन: एव आत्मा , न तत् सत्यम् ! मन: अपि एकम् इन्द्रियं तत् कर्मेन्द्रियं तथा च ज्ञानेंद्रियम् ! अत: तत् उभयेन्द्रियेति उच्यते! कतिचन जना : मन्यन्ते यत् अत्मनंपि इन्द्रियाणि सन्ति! वेदान्तमतानुसारं न तथा!
              अहमेव आत्मा! अहं न शरीरम् ! शरीरं तु नष्टं भवति कालक्रमेण! यस्य जन्म अभवत् तस्य मृत्यु: निश्चित:! परन्तु यथा सुषुप्त्यमपि स्वम् अनुभवामि तथा सदैव स्वम् अनुभवामि तदेव आत्मा ! इति वेदान्तस्य दृढमतम् ! तर्हि शरीर-आत्मनो: क: संबन्ध: इति प्रश्न:! पश्याम: अग्रिमे ब्लोगमध्ये! इति!     जयतु श्रीकृष्ण:!
              डा. चन्द्रहासशास्त्री-सोनपेठकर:!

 

No comments:

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...