Sunday, February 10, 2013

Nature of Atman: आत्मन: स्वरूपं किं ?




      आत्मन: स्वरूपं किं ?


आत्मन: स्वरूपं किं ? तत् सत्  चित् आनन्द इति! अत्र सत् इत्युक्ते यस्य सत्ता अर्थात् अस्तित्वम् अस्ति तत् ! चित् इत्युक्ते चेतना! आनन्द इत्युक्ते अखण्ड: आनन्द: य: कदापि नष्ट: न भवति तथा च दु:खस्य आत्यन्तिक: अभाव:! कतिचन जनानाम् एतत् भ्रमितमतं यद्  मन: एव आत्मा , न तत् सत्यम् ! मन: अपि एकम् इन्द्रियं तत् कर्मेन्द्रियं तथा च ज्ञानेंद्रियम् ! अत: तत् उभयेन्द्रियेति उच्यते! कतिचन जना : मन्यन्ते यत् अत्मनंपि इन्द्रियाणि सन्ति! वेदान्तमतानुसारं न तथा!
              अहमेव आत्मा! अहं न शरीरम् ! शरीरं तु नष्टं भवति कालक्रमेण! यस्य जन्म अभवत् तस्य मृत्यु: निश्चित:! परन्तु यथा सुषुप्त्यमपि स्वम् अनुभवामि तथा सदैव स्वम् अनुभवामि तदेव आत्मा ! इति वेदान्तस्य दृढमतम् ! तर्हि शरीर-आत्मनो: क: संबन्ध: इति प्रश्न:! पश्याम: अग्रिमे ब्लोगमध्ये! इति!     जयतु श्रीकृष्ण:!
              डा. चन्द्रहासशास्त्री-सोनपेठकर:!

 

Friday, February 8, 2013

संस्कृताय जीवनम्!

                     संस्कृतं मम सर्वस्वम् !

    संस्कृताय जीवनं संस्कृतस्य जीवनं इति मनसि निधाय एव जीवामि इति मन्ये खलु! नैका: प्रसंगा आगता : तत्र केचन मधुरा : केचन तिक्ता अपि ! तथापि संस्कृते यत् ज्ञानं सुभाषितेषु अस्ति तमनुश्रुत्य मार्गा : पुरत: द्रुष्टा :! इति जगदम्बकृपा ! संस्कृतं किञ्चित् जानामि इति श्रीगुरु भगवानशास्त्रीमहाराजस्य कृपाप्रसाद: खलु! जीवनं शोभनं यद्यपि तत्र ऋतूनां समाहार:! यथा शरद्वसन्तहेमन्ता: आयान्ति  तथा शिशिरादिनां  भवति  आगमनं कदा कदा! सर्वम् आनन्द्करं  तु  साहित्ये अपि न भवति किं तर्हि वास्तवे? परन्तु एकमस्ति संस्कृतं ददाति बलं तत्र संयमनार्थं सत्यमेतत् ! अत: यद् उच्यते तत् सत्यमेव यत् काव्यशास्त्रविनोदेन कालो गच्छति धीमतां! जयतु श्रीकृष्ण:!

डा . चन्द्रहासशास्त्री-सोनपेठकर:! 

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...