Monday, January 5, 2015

॥सज्जनकृतिनिर्णयः॥ चन्द्रहासः॥

सज्जनकृतिनिर्णयः।
डा. चन्द्रहास शास्त्री

न प्रष्टव्या गतिस्तेषा
मज्ञात्वा निर्णयन्ति ये।
कृतीस्तु सज्जनानां वै
वीक्षन्ति बाह्यरूपतः ॥1॥
साध्यं ध्येयं च वीक्ष्यं वै
कृतिस्तु मापिका कथम्।
बहिरङ्गे कुरूपापि
सम्यक् स्यादिति सैव च ॥2॥
वञ्चनात् मुञ्चनं कार्यं
कृत्वा विचार्य निर्णयम्।
केवलं दर्शनेनापि
नैव सदैव योग्यता ॥3॥
अतः पार्श्वे स्थितं ध्येय
मुद्दिष्टमवलोकयन्।
परीक्षयति सत्कार्यं
सैव प्राप्नोति वै हितम् ॥4॥
दुर्जनानां तथैवापि
रम्या तु स्याद् कृतिः परम्।
तद्ध्येयमसमीचिनम्
वर्तते पार्श्वतः कृतेः ॥5॥
मधुरमपि तत्त्याज्यं
विषं यत्नेन सर्वथा।
अमधुरोषधं ग्राह्यं
स्वस्य हितस्य हेतवे ॥6॥
पूर्वजैः कथिता नीतिः
स्मरणीया सदैव हि।
हासेनोक्ता पुनस्तत्र
मित्रस्य हितहेतवे ॥7॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...