Sunday, January 4, 2015

Dr. S. Chandrhas shastri writes on Shree Renuka Mata.

॥श्रीमातापुरवासिनीस्तोत्रम्॥चन्द्रहासविरचितम्॥
यस्यास्स्मरणमात्रेण
मुक्तिः सकलशोकतः।
रेणुकां मातृकां वन्दे
तां मातापुरवासिनीम् ॥1॥
वससि हृदये मेऽपि
मातापुरेऽपि मातृके।
ज्ञातुं न शक्यते लीला
त्रिदेवैः का गतिर्नृणाम् ॥2॥
सद्भक्तवत्सले देवी
भक्तहितपरायणे।
भक्तकल्पलते देवी
शरणं मे ददातु ते ॥3॥
दुर्गे दुर्गस्य सोपान
मारोहयामि सर्वदे।
गिरिमुल्लङ्घ्य मोहस्य
शरणमागतोऽस्म्यहम् ॥4॥
उर्ध्वमोर्ध्वमहं मातः
यथाऽगच्छन् तथा सुखम्।
अनुभवामि सामीप्यं
शरणागतरक्षिके ॥5॥
पूर्वपूण्यं न जानामि
यतस्त्वं मयि स्निह्यसि।
मन्ये त्ववैव वात्सल्यं
तव स्नेहस्य कारणम् ॥6॥
आगतोऽहं सुखेनैव
द्वारं ते भवतारिणी।
उद्घाट्य द्वारमेतद्धि
शरणं ते ददातु मे ॥7॥
नेत्रद्वये सलीलं मे
कथं तद् कथयाम्यहम्।
क्षीणता वेदना नष्टा
दृष्ट्वा मातुः मुखं मम ॥8॥
स्तोत्रस्य पठनं चैव
चापराधक्षमापनम्।
तथा चात्मनिवेदनं
रोदनं भजनं पुनः ॥9॥
तव विस्मरणं मातः
कठोरं मरणादपि।
वरेण्यं मरणं किन्तु
विस्मरणं न सह्यते ॥10॥
न ज्वालयति दुःखं वै
यथा विस्मरणं तव।
स्मरानि त्वां महामाये
कारुण्यनिधिरेणुके ॥11॥
देहि सिंहध्वजे स्थानं
समीपं च ध्रुवं च मे।
क्रीडेयं सह सिंहेन
पूर्णामीहां करोतु मे ॥12॥
निर्दालयामि दोषान्स्तान्
गुणान्नङ्गीकरोमि च।
इत्यर्थं काङ्क्षये मातः
कृपां तव दयानिधे ॥13॥
सर्वेश्वरी जगन्माता
देवमाता कुलेश्वरी।
प्रसन्ना सर्वदा देवी
पातु सुतं भवानि माम् ॥14॥
चरणकमले ध्यायनानतोस्म्यहमम्बिके।
स्वीकुरु भक्तरूपेण मां भक्तवत्सले शिवे ॥15॥
दृष्ट्वा त्वां विहसन्तीं वै
सर्वाशाः सफला मम।
ताम्बुलं च मुखे दृष्ट्वा
धन्योऽहमद्य मातृके ॥16॥
हासः विरमतीत्युक्त्वा
स्वमर्पयति पादयोः।
कृपया चन्द्रशेखर्याः
चन्द्रोऽद्य मुदति क्षणे ॥17॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...