हे भगवत्त्वया दत्तं
यत् तन्मया प्रसेवितम्।
प्रसादात्ते प्रसादं च
सेवितोऽस्मीति माधव ॥
या संयमस्य दीक्षा तु
दत्ता मह्यं त्वया तया।
पुनर्नवं चराम्यग्रे
तात कृपां कुरुष्व वै ॥
यथा स्नेहस्तथा क्रोध
स्तवोपरि प्रजायते।
स्मरामि त्वां नमामि त्वाम्
मधुसूदन पाहि माम् ॥
No comments:
Post a Comment