Wednesday, May 6, 2015

मनो भवतु मे सदा।

मनो भवतु मे सदा।
॥ चन्द्रहासः ॥

कृपां कुरु दयां चापि
मा विस्मर कदापि माम्।
चरणाम्बुजसंलग्नं
मनो भवतु मे सदा॥1॥

क्षणे क्षणे दिने रात्रौ
कदापि वापि रेणुके ।
स्मरणं ते मया कार्यं
हर्षोल्लासेन मातृके॥2॥

चरन् हसन् च खादन् च
स्वपन् च जागरन् तथा।
अहं स्मरानि देवि त्वां
यावज्जीवामि भूतले॥3॥

रेणुके मातृके देवि
त्राहि मां पाहि मां सदा।
अम्ब नाशय दुःखं मे
सुखं वर्षय मातृके॥4॥

यथाहं स्वीकुरुष्व मां
तथा सिंहेश्वरध्वजे ।
मुखे लसतु हास्यं मे
चारुवदनचन्द्रिके॥5॥

सकलदेवशक्तिस्त्वं
संहतिरूपिणी तथा।
सुखं तेषां करोषि त्वं
सुखार्थिनः भजन्ति ये॥6॥

महाराज्ञी सभायां ते
विप्रपुत्रोऽद्य याचकः।
याचये स्मरणं ते च
सुखं तथा च मातृके॥7॥

भक्तिं शक्तिं च युक्तिं मे
यशश्च द्रविणं च मे।
श्रीविद्यां विनयं मह्यं
देहि जननि, सत्त्वरम्॥8॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...