Wednesday, May 20, 2015

श्रीदेव्याः मुखमण्डलम्।

श्रीदेव्याः मुखमण्डलम्।
@ चन्द्रहासः।

सुहास्यवदनां देवी
मारक्तवसनां तथा।
आरुढां वनराजस्य
पृष्ठे शस्त्रयुतां मुदाम्॥1॥

पाशकमलचक्राणि
तथा खड्गं धरां शिवाम्।
युद्धसिद्धां चतुर्हस्तां
भक्तसङ्कटमोचनीम्॥2॥

तां हर्षोल्लासिनीं वन्दे
श्रीदेवीं मधुधारिणीम्।
विशालनयनां गौरीं
चन्दनचर्चितां वपुम्॥3॥

सरला नासिका यस्या
केशास्तु कुटिलास्तथा।
भ्रुवधनुष्यमध्ये तु
कटाक्षबाणशोभितः॥4॥

विशालभालदेशश्च
हरिद्राकुंकुमादिभिः।
मुकुटरत्नमाणिक्येन
तथा सुशोभितो ननु॥5॥

कुंतलैः भूषणैः पुष्पैः
कर्णौ सुशोभितौ तथा।
कपोलद्वयदिव्यत्व-
चिह्नं चकासते हि तत्॥6॥

दन्तपङ्क्तिस्तु शुभ्रा च
मुक्तावलीव भासते।
रक्तजिह्वा त्वदीयास्तु
शत्रुग्रासस्य स्मारिका॥7॥

वर्णितुमधरोष्ठं तु
न सिद्धा प्रतिभा हि मे।
दर्शनं पुण्यदं महत्
भणाम्यनुभवामि च॥8॥

सुन्दरीमीश्वरीं वन्दे
महाकालस्य भामिनीम्।
दिग्विजयां महाकाली
मुमां सौम्यस्वरूपिणीम्॥9॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...