Tuesday, April 27, 2021

।।श्रीअष्टभुजाऽष्टकम्।।

 

।।श्रीअष्टभुजाऽष्टकम्।।

 © दुर्गादासतनयः।

ध्यानम् 

ध्यायेत् त्रिनयनामुग्रां दुर्गां शत्रुविनाशिनीम्।

 परशुधारिणीं ध्यायेत् बाधाऽरिष्टान्तहेतवे ।।

स्तुतिः

 तेजस्विनि नमस्तुभ्यं तेजोनिधि नमो नमः।

 प्रचण्डखड्गधारिण्यै चण्डिकायै नमोस्तुते ।।१।।

 खड्गहस्ते गदाहस्ते पाशहस्ते धनुर्हस्ते ।

 बाणहस्ते विशालाक्षि वन्दे त्रिशुलधारिणीम्।।२।।

 शङ्खहस्ते नमस्तुभ्यं रिपुदलविनाशिनि।

 भयप्रलयकारिण्यै शत्रुध्वंसं करोतु नः।।३।।

नमस्तुभ्यं नमस्तुभ्यम् अट्टहाससमन्विते ।

 रुधिरप्राशिनीं वीराम् एकवीरां नमाम्यहम् ।।४।।

 विमुक्तकेशसम्भारे सिंहध्वजे नमो नमः ।

 कान्तिमत्यै प्रचण्डायै नमस्तुभ्यं नमोनमः ।।५।।

अष्टभुजाऽस्त्रशोभिन्यै महाकालेशभामिनि।

 नमस्तुभ्यं नमस्तुभ्यं पादयुग्मे नता वयम् ।।६।।

 गच्छेद्दृष्टिश्च मे यत्र तत्र तेजो भयङ्करम् ।

 कोटिसूर्यसमं चण्डं खड्गस्य प्रतिभाति माम् ।।७।।

 त्रिनेत्रे देहि नो नित्यं सिद्धिर्जयस्तथा यशः ।

 नमस्तुभ्यं नमस्तुभ्यं शत्रुध्वंसं करोतु नः ।।८।।

 फलश्रुतिः

शत्रुपीडान्तकं स्तोत्रं भगवत्या इदं पठेत् ।

लाभस्तस्य जयस्तस्य निश्चितो नात्र संशयः।

 

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...