Tuesday, April 27, 2021

गगनं मानसचिह्नम्।

 

गगनं मानसचिह्नम्।
©
चन्द्रहासः।

जलदैः पूरितं नीलं
गगनं सुन्दरं कियत्।
प्रियमानसचिह्नं तत्
आर्द्रं गभीरकं च तत्।।1

प्रकाश्य मानसे लुप्ता
प्रियरूपतडिल्लता।
प्रिया वक्राऽपि संगुप्ता
निशायामपि जागृता।।2

मन्दं मन्दमियं वृष्टिः
सृष्टिः संजीविता पुनः।
वीथिकायां चलन् स्वयं
हर्षमाप्नोति सः कवि:।।3

रात्री रम्या सुरम्येयं
सृष्टिर्ननु विभासते।
क्वचित् क्वचित् लसन् चन्द्रः
हसतीव मनः खलु।।4

चित्रं शैत्यं सुरम्यं तत्
प्रकाशो न तमोऽस्ति न।
यद् यथाऽपेक्षितं तच्च
तथैव विद्यते किल॥5

रागीजनसुभाग्यं हि
समाविर्भूतमत्र वै।
हर्षस्तेषां सुखं तेषां
भवेदित्यद्य कामये।।6

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...