Tuesday, April 27, 2021

चन्द्रहासविरचितं ॥ श्रीविठ्ठलाष्टकम् ॥

 

चन्द्रहासविरचितं
॥ श्रीविठ्ठलाष्टकम् ॥

श्रीरुक्मिणीवरं नाथं
चारुरूपं सतां प्रियम्।
वन्दे त्वां सत्यभामापं
नः स्वस्तये पुनःपुनः॥1

श्रीपरब्रह्मरूपं त्वां
मातृहृदयकोमलम्।
श्रीविठ्ठल, नमामि त्वां
नः स्वस्तये पुनःपुनः॥2

श्रीपुण्डलिकभक्तं च
भक्तवत्सलमीश्वरम्।
चन्द्रभागाभगं वन्दे
नः स्वस्तये पुनःपुनः॥3

श्रीवत्सचिह्नयुक्तं त्वां
धर्मसूत्रं च धारिणम्।
पुराणपुरुषं वन्दे
नः स्वस्तये पुनःपुनः॥4

श्रीकौस्तुभं धरन्तं त्वां
तुलसीभूषणप्रियम्।
सकलजनवन्द्यं त्वां
नः स्वस्तये पुनःपुनः॥5

श्रीवैजयन्ति वन्दे त्वां
प्रभुकण्ठनिवासिनीम्।
तुलसीमञ्जिरीं वन्दे
नः स्वस्तये पुनःपुनः॥6

श्रीचरणारविन्दश्रीं
तिलकचन्दनार्चिताम्।
वन्दे त्वाममृतां भक्त्या
नः स्वस्तये पुनःपुनः॥7

श्रीमद्सद्सहितं वन्दे
चतुर्फलप्रदायकम्।
प्रियकरं प्रियं वन्दे
नः स्वस्तये पुनःपुनः॥8

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...