Tuesday, April 27, 2021

नमामि सैनिकम्।

 

नमामि सैनिकम्।
©
चन्द्रहासः।

नमामि सैनिकं श्रेष्ठम्
अस्माकं रक्षकं वरम्।
सर्वस्वमर्पयित्वा यः
करोति राष्ट्ररक्षणम्॥1

सः जीवन् जागरन् चापि
मारयन् च मरन् तथा।
भारतमातरं प्रजां
संरक्षति सदा सदा॥2

आर्द्रे मे नयने सत्यं
तस्योपकारवर्णने।
समर्पये ममायुश्च
तस्मै जीवेत् जयेच्च सः॥3

गृहाद् दूरं वसन् तिष्ठन्
पश्यन् शृण्वन् रिपोः कृतिम्।
न गणयति शीतोष्णं
सीमायाः रक्षणे रतः॥4

हे सैनिक नमस्तुभ्यं
त्वदीयकारणाद्धि वै।
दीपावल्युत्सवो सुष्ठु-
सम्पन्नो जायते च नः॥5

कथं ते धन्यवादांश्च
वक्तव्याः शब्दमाध्यमैः।
नमस्तुभ्यं नमस्तुभ्यं
नमोनमः नमोनमः॥6

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...