Tuesday, April 27, 2021

विजयप्राप्तिहेतवे॥

 

विजयप्राप्तिहेतवे॥

चन्द्रहास: ।

नमामि त्वामहं कृष्ण 

वाचा च कायया तथा।

मनसाऽपि स्मरामि त्वां

केशवं वल्लभं प्रभुम्।।1

 

 राधिकासहितं कृष्णं

 मयूरपिच्छशोभितम्।

 लोकनाथं महाभावं

 भावप्रियं भुवः पतिम्॥2

 

पुराणं नूतनं तथाऽजं

जन्ममरणमुक्तकम्।

गोवंशरक्षकं नाथं

गोपिचन्दनधारिणम्॥3

 

योगक्षेमवहन्तं त्वां

पूर्तिकरं मनोरथम्।

पार्थसारथ्यकुर्वन्तं

स्मरामि मधुसूदन।।4

 

दर्शयन्तं विराट्-रूपं

चक्रहस्तं गदाधरम्।

दुष्टदुर्जनहन्तारं

नमामि चक्रधारिणम्।।5

 

सारथ्यं कुरु नः कृष्ण

विजयं देहि सत्त्वरम्।

भक्तास्तव जयेयुश्च

दुर्जनत्वं पराजयेत्।।6।।

 

प्रणम्य त्वां वयं नित्यं

शाम स्याम यशस्विनः।

इदं राज्यं भवेत् सर्वं

भक्तिशक्तिसमन्वितम्।।7।।

 

जनचित्तहरन्तं त्वां

मोहनं मोहनाशकम्।

वन्देऽहं चन्द्रहासस्त्वां

विजयप्राप्तिहेतवे॥8

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...