Tuesday, April 27, 2021

सदा नागनाथं नमामीश्वरं तम्।

 

सदा नागनाथं नमामीश्वरं तम्।
© 
चन्द्रहासः।

शिवं शंकरं पार्वतीपं प्रणम्य
सुभक्ता जनाः प्राप्नुवन्तीह सर्वम्।
तथाऽहं शिवाशंकरौ तौ नमेयं
विनष्टानि दुःखानि मे तेन नित्यम् ॥ 1

उमादेवयोः प्राप्य दिव्यकृपां तां
मनुष्यः पुनः किं च वाञ्छेत् वद त्वम्।
यदिष्टं च तेनाभिवाच्यं च चिन्त्यं
सुलब्धं हि वै जायते तस्य नित्यम् ॥2

तमोंकाररूपं तमं नाशयन्तं
शिवं शंकरं तं महादेवरूपम्।
सदानन्दकारं सदामोदकारं
भजेऽहं भजेऽहं सदाऽहं सदाऽहम् ॥3

शिवाकाररूपं च तत्त्वस्वरूपं
गभीरं च गङ्गाधरन्तं महेशम्।
उमेशं च भक्तानुरक्तं भजेऽहं
प्रतापं प्रचण्डं प्रभुं देवदेवम् ॥4

नमस्ते महादेव तुभ्यं नमस्ते
जटाधारिणं शूलहस्तं नमामि।
सदा शक्तियुक्तं सदा ध्यानमग्नं
सदा नागनाथं नमामीश्वरं तम् ॥5

एवमुक्त्वा महादेव,
विनतोऽहं भवामि च।
जननीजनकौ वन्दे
सदा सदा सदा सदा॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...