Tuesday, April 27, 2021

........ चान्धःकारे प्रबोधनम्॥

 

........ चान्धःकारे प्रबोधनम्॥
©
चन्द्रहासः।

संस्कृतेन विना यत्तद्
जीवनं न हि जीवनम्।
समयोऽयं तु यात्यग्रे
स्थितं तथैव जीवनम्॥

सुभाषितानि पद्यानि
मोदकरानि तानि च।
हीरकाणीव कुर्वन्ति
चान्धःकारे प्रबोधनम्॥

धन्यास्ते कवयस्तैश्च
समृद्धं काव्यमन्दिरम्।
हंसवाहिनि, ते पुत्रैर्
व्याप्तमुपकृतं जगत्॥

हे मयूरध्वजे मातः
हंसध्वजे नमो नमः।
गतिं मतिं धृतिं देहि
शक्तिं स्वस्तिं च शारदे॥

प्रतिभां देहि च प्रज्ञाम्
अद्वितीयां च लेखनीम्।
चरणारविन्दयोः स्थानं
देहि मे शरणं तव॥

यदुक्तं चन्द्रहासेन
प्रसादरूपकं तव।
देवि कुरुष्व कल्याणं
शृण्वन्ति वा भणन्ति ये॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...