Tuesday, April 27, 2021

शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

 

शुभे रेणुके त्राहि मां पाहि मां त्वम्।।
चन्द्रहासः।

मनोहारिणी चापि दिव्या त्वमीशे
शिवे मातृके कल्पवल्ली त्वमीशे।
प्रतीक्षां कृपायास्तु कुर्वन् स्थितोऽहं
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

जगत्पालिके रेणुके मातृके त्वं
सुतानां हितार्थं सुमग्ने भवानि।
हितं मे जयं मेऽस्तु मातः सदा हि
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

शरण्ये प्रभे दुर्जनान्तस्य कार्यं
प्रसिद्धं च सिद्धं सदा ते भवानि।
तमो नाशयित्वा प्रकाशं कुरु त्वं
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

विहाय त्वयाऽस्ते शरण्यं किमन्यत्
त्वमेवासि सर्वं शिवे मे सदा हि।
यशो देहि मातः यशो देहि मातः
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

अलं मे भ्रमं विभ्रमं हे विशाले
शरण्यं च भुत्वा शुभे पादयोस्ते।
ध्रुवस्थानमेतद्धि देयं च मह्यं
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

अनन्यं च भावं सदाऽस्तां मदीयं
विशालाक्षि दक्षे सुभक्तैश्च वन्द्ये।
नमः खड्गहस्ते नमस्ते नमस्ते
शुभे रेणुके त्राहि मां पाहि मां त्वम्।।

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...