Tuesday, April 27, 2021

आलस्यं त्यक्तुमिच्छामि।

 

आलस्यं त्यक्तुमिच्छामि।
©
चन्द्रहासः।

आलस्यं त्यक्तुमिच्छामि
यत्नः सफलो भवेत्।
आलस्यादधिको जातं
चालस्यं मे मतिस्तथा।।

सिंहस्येदं प्रमान्द्यं नु
दूरीभवतु सत्वरम्।
किं कथं नैव जानामि
मातस्त्वं कर्तुमर्हसि।।

क्रोधेनापि च केनापि
मार्गेण नैव नश्यति।
कृपां विहाय तन्नैव
दूरीभवितुमर्हति।।

परीक्षा मास्तु मातो मे
यशश्च मेऽस्तु सत्वरम्।
कण्टकान् च सुदूरं कृत्वा
रक्षितव्यस्त्वया खलु।।

संत्रस्तस्तव पुत्रश्चेद्
द्रवति हृदयं ते किल।
अपराधान् च मे मातस्
त्वं क्षमस्वाधुना ननु।।

त्वदीय कारणादायुः
स्वास्थ्यं च श्रीस्तथा यशः।
कारयित्री त्वमेवाम्ब
कल्याणं कुरु मेऽधुना।।

त्वद्भिन्ना मार्गिका यास्ताः
गच्छन्ति नोदयं प्रति।
उदयं प्रति गच्छन्त्यः
त्वद्पादयुतमार्गिकाः।।

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...