Tuesday, April 27, 2021

नमामि शंकरं शिवम् ।

 

नमामि शंकरं शिवम् ।

© चन्द्रहासः।

पंचचामर छन्द।



 

उमापतिं सतीपतिं शिवं प्रभुं विभुं परं  नमामि शंकरं शिवं नमामि शंकरं शिवम्।
नगाधिराजसेवितं जटाधरं मृगाजिनं नमाम्यहं नमाम्यहं नमामि शंकरं शिवम्॥1॥]

 

समस्तदेवपूजितं समस्तलोकपूजितं नमामि शंकरं शिवं नमामि शंकरं शिवम्।
समस्ततापनाशकं समस्तलोकनायकं नमाम्यहं नमाम्यहं नमामि शंकरं शिवम् ॥2

 

वृषध्वजं शशीधरं पिनाकहस्तधारिणं नमामि शंकरं शिवं नमामि शंकरं शिवम्।
प्रमोदकं शिवंकरं सुरापदाविनाशकं नमाम्यहं नमाम्यहं नमामि शंकरं शिवम् ॥3

 

तपस्विनं च योगिनं च मायिनं महेश्वरं नमामि शंकरं शिवं नमामि शंकरं शिवम्।
अनाथनाथलोकनाथभूतनाथमीश्वरं नमाम्यहं नमाम्यहं नमामि शंकरं शिवम् ॥4

 

शुभं शुभंकरं शिवं महाप्रभुं हरं वरं नमामि शंकरं शिवं नमामि शंकरं शिवम्।
शरण्यस्थानभूषितं सुरासुरैः सुपूजितं नमाम्यहं नमाम्यहं नमामि शंकरं शिवम् ॥5

 

ममारिनाशहेतवे नमामि शंकरं शिवं हितार्थसिद्धिहेतवे नमामि शंकरं शिवम्।
अभीष्टलाभहेतवे नमामि शंकरं शिवम् नमाम्यहं नमाम्यहं नमामि शंकरं शिवम् ॥6


मदीयचन्द्रहासलाभहेतवे सदाशिवं  नमामि शंकरं शिवं नमामि शंकरं शिवम्।
नमामि शंकरं शिवं नमामि शंकरं शिवं नमामि शंकरं शिवं नमामि शंकरं शिवम् || 

|| इति चन्द्रहासविरचितं नमामि शंकरं शिवम् स्तोत्रं संपूर्णम् ||

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...