Tuesday, April 27, 2021

वन्देऽहं देवकीसुतम्।

 

वन्देऽहं देवकीसुतम्।
©
चन्द्रहासः।

प्रमोदमोदरूपं त्वां
वन्देऽहं देवकीसुतम्।
यशोदावत्सलं वन्दे
वसुदेवसुतं प्रभुम्॥

नन्दानन्दमुकुन्दं त्वां
गोकुलवासिनं विभुम्।
गोप्रतिपालकं वन्दे
गोकुलजनवल्लभम्॥

नमामि त्वां नमामि त्वां
चित्तप्रशान्तकारकम्।
मुरलीं वादयन्तं त्वां
मधुरं मधुरं परम्॥

यमुनाधिपतिं वन्दे
त्वां नवनीतहारकम्।
बलरामानुजं वन्दे
वन्दे वसनहारकम्॥

श्रीराधिकाप्रियं त्वां
वन्दे मधुरभाषिणम्।
श्रीराधासहितं वन्दे
त्वां मनोहररूपिणम्॥

तव जन्मतिथौ भूतं
स्मरणं कृपया तव।
नमति चन्द्रहासोऽयं
त्वां भगवन् पुनः पुनः॥

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...