कधी कधीच असं होतं की, रसिकाकडून कृती घडते, कवी त्या कृतीस अनुलक्षून काव्य रचतो आणि रसिक अचूक वेध घेतो त्या आपल्या काव्यकारणकृतीचा. हो, हे शक्य आहे. श्रीवागीश्वरीला अशा वेळी कवीला झालेला आनंद समर्पित करणारा हा ब्लाॅग.
काव्यस्य मूलपर्यन्तं
गच्छति रसिको यदि।
मन्यतां शारदा तुष्टा
तस्यास्सुफलिता कृपा ॥1॥
गच्छति रसिको यदि।
मन्यतां शारदा तुष्टा
तस्यास्सुफलिता कृपा ॥1॥
क्वचिद्भवति मूलेऽस्मिन्
संस्थितो रसिकस्स्वयम्।
अन्वेषयति मूलं सः
कवेर्सुखं कियद्वद ॥2॥
संस्थितो रसिकस्स्वयम्।
अन्वेषयति मूलं सः
कवेर्सुखं कियद्वद ॥2॥
येन विहाय व्यर्थं वै
काव्ययज्ञो हि सर्वथा।
रसज्ञं नौमि तस्माच्च
तदृणे हि स्थितोस्म्यहम् ॥3॥
काव्ययज्ञो हि सर्वथा।
रसज्ञं नौमि तस्माच्च
तदृणे हि स्थितोस्म्यहम् ॥3॥
ऋणं मधुरमेतद्धि
कवेर्धनं तदेव वै।
रसिकस्यैव सेवार्थं
जयन् जीवन् कविस्सदा ॥4॥
कवेर्धनं तदेव वै।
रसिकस्यैव सेवार्थं
जयन् जीवन् कविस्सदा ॥4॥
भवेयं शारदे देवी
विनम्राम्रतरुः समः।
यो रसमञ्जिरीं धृत्वा
न त्यजेत् नम्रतां कदा ॥5॥
विनम्राम्रतरुः समः।
यो रसमञ्जिरीं धृत्वा
न त्यजेत् नम्रतां कदा ॥5॥
ते चरणतले मातः
सुखेन निवसामि च।
हंसध्वजे कृपां कृत्वा
शिशुं पालय लालय ॥6॥
सुखेन निवसामि च।
हंसध्वजे कृपां कृत्वा
शिशुं पालय लालय ॥6॥
त्वया प्रतिभा दत्ता
रक्षणीया त्वया हि सा।
ममेति नास्ति किञ्चिद्धि
तव तुभ्यं समर्पये ॥7॥
रक्षणीया त्वया हि सा।
ममेति नास्ति किञ्चिद्धि
तव तुभ्यं समर्पये ॥7॥
बाल्यादेव कृपां तेऽहमनुभवामि शारदे।
वक्तुं शक्नोमि शब्दं तेऽनुष्ठानफलं हि तत् ॥8॥
वक्तुं शक्नोमि शब्दं तेऽनुष्ठानफलं हि तत् ॥8॥
No comments:
Post a Comment