Thursday, December 18, 2014

चन्द्रहासविरचितं श्रीराधाकृष्णाष्टकम्।

॥चन्द्रहासविरचितं
श्रीराधाकृष्णाष्टकम्॥
श्रीराधासहितं तत्त्वं
भगवन्तं सुशामलम्।
वृषभानुकिशोरीशं
कृष्णं वन्दे पुनः पुनः॥1॥
विना राधामनाथं तं
राधानाथमहत्प्रभुम्।
नमामि राधिकाप्राणं
प्राणनाथं जगत्पतिम्॥2॥
सर्वसुखस्य दातारं
युगलाकाररूपकम्।
निर्मलचेतसाभिश्च
दृश्यं सुमधुरं नवम्॥3॥
गायन्ति कीर्तयन्तीति
भक्तिरित्यभिधीयते।
आनन्दन्ति हि भक्तास्ते
रतिभावे स्थितो रसः ॥4॥
भक्तानां नर्तने कृष्ण-
रनुभूतिस्तु राधिका।
कृष्णस्य हृदयं राधा
प्राणरेकस्तु देहौ द्वौ॥5॥
अमृतादपि वर्यं तत्
राधाकृष्णेति नाम वै।
यथा रूपं तथा नाम
पुण्यदं सुखदं महत्॥6॥
त्रिषु योगेषु सत्यं यत्
भक्तिरेव गरीयसी।
कर्तुं ज्ञातुं न शक्यं वै
भवति स्वयमेव सा॥7॥
जिह्वायां नाम तन्नित्यं
वसतु राधिकेश मे।
संस्तुत्य युगलं रूपं
हासः प्राञ्जलिरानतः ॥8॥
जयतु श्रीकृष्णः।

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...