Tuesday, December 9, 2014

ShreeDurga-Dhyan-Panchakam

॥दुर्गादासतनयविरचितं
श्रीदुर्गाध्यानपञ्चकम्॥

ध्वनिं संश्रुत्य धन्योऽहं किणकिणकिणाङ्किण।          कङ्कणानां जनन्यास्तेऽभयमुद्रा धृता यदा॥1॥

श्रीचिह्नाङ्कितहस्तस्य दर्शनं पुण्यदं महत्।
निर्मलं मङ्गलं शुध्दं चेतश्चकासते खलु॥2॥

प्राप्यमन्यत्तदाऽशेषं भुक्तिं मुक्तिं भगं तथा।
त्रिषु कालेषु सत्यं त्वद्भक्तेन प्राप्यतेऽधिकम्॥3॥

वत्सलता स्वभावस्त्वदनाथेषु दया तथा।
चन्द्रहासप्रहारश्च मत्तेषु दुर्जनेषु च॥4॥

तस्मात् ध्यायेत् सदा दुर्गां स्वस्तिं स्वाहां स्वधामपि ।
श्रीचरणाम्बुजध्यानं सर्वानन्दप्रदं सुखम्॥5॥

इति दुर्गादासतनयविरचितं श्रीदुर्गाध्यानपञ्चकम्।

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...