Tuesday, December 9, 2014

॥चन्द्रहासविरचितश्रीगणेशाष्टकम्॥

अथ चन्द्रहासविरचितं श्रीगणेशाष्टकम्।

श्रीगणेशो वरं दाता
विघ्नहर्ता स्वभावतः।
पार्वतीश्वरयोः पुत्रः
पातु मां सर्वतोपरि॥1॥

खलनिर्दालकः साक्षात्
महादेवसुतः प्रभुः।
इतः ऋध्दिः ततः सिध्दिः
राराजते गणेश्वरः॥2॥

मेधानामीश्वरस्यास्य
ॐकाररूपमद्वयम्।
विद्यां ददाति सर्वेभ्यः
स जयति महेशजः॥3॥

कुमारस्यानुजोऽयं हि
शोभते मूषकोपरि।
यः प्रार्थयति यद्यद्धि
तस्मै यच्छति सर्वदः॥4॥

अकारणं दयालुत्वं
कृपालुत्वं स्वभावजम्।
परमपूजनीयोऽयं
पातु नः सर्वतोपरि॥5॥

अद्भूतमहिमाऽस्यास्ति
वर्णये किमहं कथम्।
गायन्ति यत्र सर्वे
द्युलोकस्थाः स्तवं स्वयं॥6॥

स्तुत्वा नत्वा जनाः यान्ति
कुशलतां प्रवीणताम्।
मोरया मोरया घोषं
कृत्वा धन्याः भवन्ति हि ॥7॥

मुनीनां वचनं सत्यं
कलौ चण्डिविनायकौ।
हासः नमति तं देवं सर्वविघ्नोपशान्तये॥8॥

Dr. Chandrhas Shastri

No comments:

Post a Comment

या फोटोची एक सुंदर, छोटीशी गोष्ट......

  (फोटो साभार आंतरजाल / समाजमाध्यम) या फोटोची एक सुंदर, छोटीशी गोष्ट......  खरं तर हा फोटो यापूर्वी देखील मी अनेकदा पाहिलाय. दर्शन घेतलंय. आ...