कविचन्द्रहासविरचित-
श्रीकलामस्मरणम्!
श्रीकलाममहाभाग
नमस्ते
ज्ञानभास्कर।
स्मरामश्च
वयं ते वै
समादरेण
सर्वदा॥1॥
संप्रेरकश्च शास्त्रज्ञो
तत्वज्ञश्च
समर्पितः।
भारतमातृपुत्राणां
मालिकायां
विराजते॥2॥
संरक्षणे दधीचिश्च
व्यास इव
च लेखने।
भाषणे यो
वसिष्ठो वै
राष्ट्रार्थं
भूमिका तथा॥3॥
राष्ट्रपतिश्च राष्ट्रर्षिः
भारतमातृभूषणम्।
जन्म ते च
भवेदत्र
पुनःपुनःपुनःपुनः॥4॥
विंशतिर्विंशतिर्मध्ये
मातृभूमिर्महासत्ता।
विश्वगुरु
भवेदिष्टा
भवदुपस्थितिस्तदा॥5॥
©
डाॅ.
चन्द्रहास सोनपेठकर
No comments:
Post a Comment