मातरमभिवादये।
चन्द्रहास:।
कारुण्यसरितां देवीं
मंगलकारिणीं शिवाम्।
सदाशिवेन साकं त्वां
मातरमभिवादये॥
भक्तार्तनाशनार्थं त्वां
प्रार्थयेऽहं सदा सदा।
शूलहस्तां चतुर्हस्तां
मातरमभिवादये॥
विघ्नहन्त्रीं सुधावृष्टिं
करुणालयविग्रहाम्।
देहि मे शरणं नित्यं
मातरमभिवादये॥
No comments:
Post a Comment