गगनं मानसचिह्नम्।
© चन्द्रहासः।
जलदैः पूरितं नीलं
गगनं सुन्दरं कियत्।
प्रियमानसचिह्नं तत्
आर्द्रं गभीरकं च तत्।।1॥
प्रकाश्य मानसे लुप्ता
प्रियरूपतडिल्लता।
प्रिया वक्राऽपि संगुप्ता
निशायामपि जागृता।।2॥
मन्दं मन्दमियं वृष्टिः
सृष्टिः संजीविता पुनः।
वीथिकायां चलन् स्वयं
हर्षमाप्नोति सः कवि:।।3॥
रात्री रम्या सुरम्येयं
सृष्टिर्ननु विभासते।
क्वचित् क्वचित् लसन् चन्द्रः
हसतीव मनः खलु।।4॥
चित्रं शैत्यं सुरम्यं तत्
प्रकाशो न तमोऽस्ति न।
यद् यथाऽपेक्षितं तच्च
तथैव विद्यते किल॥5॥
रागीजनसुभाग्यं हि
समाविर्भूतमत्र वै।
हर्षस्तेषां सुखं तेषां
भवेदित्यद्य कामये।।6॥
No comments:
Post a Comment