हे श्रीकृष्ण.....॥
© चन्द्रहासः।
मुरलीं करयोर्धृत्वा
प्रतीक्ष्यते त्वया तु या।
प्रतीक्षा क्रीयते नैव
त्वदीया कृष्ण तया॥
न विस्मृतः स्मरन्त्या त्वं
तया कदाप्यतः किल।
तस्मान्न हि प्रतीक्षा च
नेक्षा च न परीक्षणम्॥
प्रतीक्षा नैव परीक्षा ता
मिक्षाऽपि च न बाधिता।
ओषधिः सर्वबाधानां
तयैव दीक्षया युता॥
वृषभानुसुता देवी
दीक्षिता सा त्वदीयया।
अनुपम्या सुभक्त्या वै
दिव्यया रम्यया तथा॥
तया सह तथा त्वं
वासुदेव सुशोभसे।
वसन्तसमये प्राप्ते
वृक्षाम्रो लतया सह॥
No comments:
Post a Comment