भारतमातृका वन्द्या ।
चन्द्रहास:।
राष्ट्रं मे वर्धतां
नित्यं
भवेद् विकसितं तथा।
भारतमातृका वन्द्या
पूज्याऽराध्या सदा सदा॥
प्राचीनं वैभवं सर्वं
भगं यशः श्रियः स्तथा।
स्वस्तिमृद्धिं तथा पुष्टिम्
लभेमहि वयं पुनः॥
आसीदिह यथापूर्वं
शास्त्रचर्चा तथा भवेत्।
अनुक्रिया तु संस्कार्या
शूरवीरविजेतृणाम्॥
विश्वगुरुपदं ध्येयं
ऐक्यमेव हि साधनम्।
भारतभूमिका वन्द्या
विनायकेण मन्त्रिता॥
नमति चन्द्रहासोऽयं
हृदि भारतमातरम्।
चन्द्रहास
No comments:
Post a Comment