श्रीसरस्वतिमातृवन्दनम्।
@ चन्द्रहासः।
स्वराणां स्वामिनी त्वं
मां
रक्ष रक्ष सदा सदा।
स्वीकृत्य नमनं मातः
प्रसीद त्वरयाऽधुना॥1॥
वीणावादिनि वाग्-रूपे
हंसमयूरवाहने।
नमस्तुभ्यं नमस्तुभ्यं
पद्मासने नमोस्तुते॥2॥
स्थितिरियं कुरु त्वं मे
वाचमर्थोऽनुधावति।
शुभसंकल्पसंयुक्तं
मनो मेऽस्तु सदा सदा॥3॥
मनसि मन्दिरे मातो
वासस्ते विद्यतां सदा।
तेन सिद्धा भवन्तीह
कार्याणि सकलानि मे॥4॥
बाल्यात्प्रभृति मातस्ते
नाम स्थितं मुखे मम।
श्रीगुरुणां कृपैषा वै
भारति त्वां नमाम्यहम्॥5॥
No comments:
Post a Comment