अभयं
मे।
© चन्द्रहासः।
दुःखे भयं सुखे भयं
नाभयं कुत्रचित् खलु।
मातस्ते सन्निधौ तु मेऽ
स्त्यभयमभयं सदा॥
भयनिवारिणी सखी
माता विश्वाम्बिका परा।
अभयदायिनी शिवा
नामानि सुन्दराणि ते॥
मदीयं सुमुखे सदा
वसतु नाम ते स्वधे।
श्रीरेणुके हितं कुरु
कृपां कुरु ममोपरि॥
No comments:
Post a Comment