सततं प्रणमाम्यहम्।
चन्द्रहास:
।
मञ्जुलनादिनीं मायाम्
उल्लासिनीं प्रभां शुभाम्।
बिन्दुरूपस्थितां विद्यां
नमामि मोदिनीं पराम्॥
पर्वतकन्यकां देवीं
स्मितहास्यमुखाम्बुजाम्।
कुसुमस्तबकं धराम्
अपर्णां महेशार्थिनीम्॥
शिवध्यानरतां देवीं
शिवरूपां तपस्विनीम्।
व्रतस्थां परमां शक्तिं
सततं प्रणमाम्यहम्॥
No comments:
Post a Comment